|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.11. अध्यायः 011
Mahabharata - Sauptika Parva - Chapter Topics
मकुलेन युधिष्ठिरसमोषं प्रति द्रौपथानयनम्॥ 1 ॥ द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवभ्राय प्रस्थानम्॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text
10-11-0(64532)
वैशम्पायन उवाच। 10-11-0x(5286)
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा।
महादुःखपरीतात्मा बभूव जनमेजय॥ 10-11-1(64533)
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः।
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च॥ 10-11-2(64534)
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्।
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा॥ 10-11-3(64535)
`कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम्।
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः'॥ 10-11-4(64536)
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः।
नकुलः कृष्णया सार्धमुपायात्परमार्तया॥ 10-11-5(64537)
उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम्।
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया॥ 10-11-6(64538)
कम्पमानेव कदली वातेनाभिसमीरिता।
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि॥ 10-11-7(64539)
न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम्।
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट्॥ 10-11-8(64540)
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः।
वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः॥ 10-11-9(64541)
सा समाश्वासिता तेन भीमसेनेन भामिनी।
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत्॥ 10-11-10(64542)
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम्।
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै॥ 10-11-11(64543)
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम्।
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि॥ 10-11-12(64544)
आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान्।
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि॥ 10-11-13(64545)
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा।
शोको मां दहते गाढो हुताशन इवाश्रयम्॥ 10-11-14(64546)
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः।
हियते सानुबन्धस्य युधि विक्रम्य जीवितम्॥ 10-11-15(64547)
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः।
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः॥ 10-11-16(64548)
एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्।
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी॥ 10-11-17(64549)
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम्।
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्॥ 10-11-18(64550)
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे।
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि॥ 10-11-19(64551)
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः।
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने॥ 10-11-20(64552)
द्रौपद्युवाच। 10-11-21x(5287)
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः।
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्।
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः॥ 10-11-21(64553)
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना।
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत्॥ 10-11-22(64554)
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्।
जहि तं पापकर्माणं शम्बरं सघवानिव॥ 10-11-23(64555)
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन।
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा॥ 10-11-24(64556)
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते।
हिडिम्बदर्शने चैव तथां त्वमभवो गतिः॥ 10-11-25(64557)
तथा विराटनगरे कीचकेन भृशार्दिताम्।
मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव॥ 10-11-26(64558)
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा।
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव॥ 10-11-27(64559)
वैशम्पायन उवाच। 10-11-28x(5288)
तस्या बहुविधं दुःखं निशम्य परिदेवितम्।
न चामर्षत कौन्तेयो भीमसेनो महाबलः॥ 10-11-28(64560)
स काञ्चनविचित्राङ्गमारुरोह महारथम्।
आदाय रुचिरं चित्रं समार्गणगुणं धनुः॥ 10-11-29(64561)
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः।
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्॥ 10-11-30(64562)
ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा।
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः॥ 10-11-31(64563)
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः।
`द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत'॥ ॥ 10-11-32(64564)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-11-11 दिष्ठ्येति। पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यधिक्षेपः॥ 10-11-11 एकादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|